चरवकचनतन आतम

Read full text
Authors: Malay Debnath
Cited by: 0

Abstract

चार्वाकवादिनां प्रत्यक्षप्रमाणस्योपरि प्रतिष्ठितः भौतिकवादिविचारधारा दार्ढ्येन आत्म-परमात्म-मोक्ष-स्वर्ग-नरकादिकं निराकृत्य स्थूलदेहस्य तथा तदीयस्य च सुखस्योपरि आधारितमेकमभिनवदर्शनं प्रवर्तितवती । तदानीं विपक्षत्वेन स्थितानि अन्यानि दर्शनानि पूर्वपक्षिणः चार्वाकस्य सिद्धान्तम् अवधानेन श्रुतवन्ति, बलिष्ठयुक्तिपरम्परया प्रथममेव तेषां मन्तव्यं खण्डितवन्ति, पुनश्च विभिन्नेषु दार्शनिकग्रन्थेषु प्रतिपक्षरूपेण संस्थाप्य चार्वाकवादिनं मर्यादादानं चक्रुः। माधवाचार्यकृतस्य सर्वदर्शनसंग्रहस्य प्रथमाध्याय एव चार्वाकदर्शनस्य आधारभूतेन प्रामाणिकग्रन्थरूपेण स्वीकृतः। एतदतिरिक्तं यत् किञ्चन चार्वाक-तत्त्वं प्राप्यते तन्मूलतो विभिन्नानां दर्शनानां भाष्यविवरणे विधृतं पूर्वपक्षिनां मतम् । चार्वाकवादिनाम् आत्मविषयकधारणाया अवबोधनाय एते एव विश्वसनीया आकरग्रन्थाः। ग्रन्थानामेषामालोकेन चार्वाकनये आत्मेति विषयमाधारीकृत्य प्रस्तुतोऽयं संदर्भः।

Fields of Study & Subjects

Indian and Buddhist Studies Study and Philosophy of Religion Traditional Chinese Medicine Studies

Publication details

Journal / source
International Journal of Sanskrit Research
Volume
12
Issue
1
Pages
71–73
Publication date
1 January 2026