वद-वदततरकलय रजयशसनवयवसथ : एकमधययनम
Abstract
अयं शोधप्रबन्धः प्राचीनभारतीयराज्यशासनव्यवस्थायाः वैदिक-वैदिकोत्तरपरम्परायाः सम्यग् अध्ययनं प्रस्तौति। आधुनिकप्रजातन्त्रात्मकसंविधानस्य उद्भवात् पूर्वं भारतवर्षे प्रचलितं राजतन्त्रात्मकशासनं केन प्रकारेण राष्ट्रस्य संरक्षणं, प्रशासनं तथा प्रजाकल्याणं साधयति स्म - इत्येतदस्य अध्ययनस्य प्रमुखं लक्ष्यं वर्तते। वैदिकवाङ्मये राष्ट्रस्य, राज्ञः, मन्त्रिणां, दण्डविधानस्य च स्वरूपं संहितासु, ब्राह्मणग्रन्थेषु, सूत्रसाहित्येषु च विविधप्रसङ्गेषु उपलब्धं दृश्यते। वैदिकोत्तरकाले मनुस्मृतिः, याज्ञवल्क्यस्मृतिः, कौटिलीयार्थशास्त्रं च राज्यशासनव्यवस्थायाः स्पष्टतरं, व्यवस्थितं च रूपं प्रदर्शयन्ति। विशेषतया राज्यस्य सप्ताङ्गसिद्धान्तः, राज्ञः कर्तव्यनिर्देशः, मन्त्रिपरिषदः भूमिका, दण्डनीतेः सामाजिकोपयोगिता च अत्र विवेचिता अस्ति। अयं शोधः दर्शयति यत् प्राचीनभारतीयराज्यशासनव्यवस्था केवलं दण्डप्रधानं नासीत्, अपि तु धर्म, नीति, विनय, लोककल्याणपरायणता च अस्य मूलाधाराः आसन्। एते विचाराः अद्यतनराज्यशासनविमर्शेऽपि प्रासङ्गिकत्वं वहन्ति इति निष्कर्षः अत्र प्रतिपाद्यते।
Fields of Study & Subjects
Indian and Buddhist Studies
Public Administration and Governance
South Asian Studies and Diaspora
Publication details
- Journal / source
- International Journal of Sanskrit Research
- Volume
- 12
- Issue
- 1
- Pages
- 92–97
- Publication date
- 1 January 2026