वदनतदरशनष मकषतततववमरश

Read full text
Authors: Tanmay Porel
Cited by: 0

Abstract

भारतीयदार्शनिकपरम्परायां सुखस्य अन्वेषणं मानवजीवनस्य केन्द्रीयविषयत्वेन प्रतिष्ठितम् अस्ति। अस्मिन् ब्रह्माण्डे सर्वे प्राणिनः स्वाभाविकतया सुखप्राप्तिमेव परमपुरुषार्थरूपेण स्वीकुर्वन्ति, दुःखनिवृत्तिं च जीवनस्य परमलक्ष्यं मन्यन्ते। एतदेव कारणं यत् मनुष्याः सांसारिकं पारमार्थिकं च कर्म कुर्वन्तः विविधमार्गान् आश्रयन्ति। साधारणबुद्ध्या इच्छापूर्तिः एव सुखस्य परिभाषा इति स्वीकृत्यते, किन्तु सा परिभाषा तात्त्विकदृष्ट्या अपूर्णा एव दृश्यते।सांसारिकेच्छानां स्वरूपमेव अनवसानात्मकम् अस्ति। एकस्य भोगस्य प्राप्तौ अपि अन्यस्य भोगस्य आकाङ्क्षा जायते, अतः लौकिकसुखं न केवलं क्षणिकं भवति, अपि तु तृष्णावर्धकमपि। स्वर्गादिलोकप्राप्त्या यत् सुखं लभ्यते तत् अपि कर्मफलजन्यत्वात् क्षयशीलमेव। श्रुतिषु “क्षीणे पुण्ये मर्त्यलोकं विशन्ति” तथा “तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र लोकः अपि क्षीयते” इत्यादिवाक्यानि कर्मजन्यसुखस्य अनित्यत्वं स्पष्टतया प्रतिपादयन्ति। अतो न कर्म, न भोगः, न लोकविशेषः नित्यसुखस्य आधारः भवितुं शक्नोति। पूर्णकामावस्था आत्मसाक्षात्कारं विना न सम्भवति। आत्मज्ञानात् एव अविद्याजन्यदुःखनिवृत्तिः जायते, तथा च आनन्दस्वरूपस्य ब्रह्मणः प्रत्यक्षानुभवः सम्भवति। अयं आनन्दः न विषयसापेक्षः, न कालसापेक्षः, अपि तु नित्यः निरतिशयश्च। उपनिषद्वाङ्मये भारतीयचिन्तनस्य एषः मूलसिद्धान्तः स्पष्टतया प्रतिपादितः दृश्यते। उपनिषदः आत्मानं ब्रह्मस्वरूपं आनन्दमयं च प्रतिपादयन्ति, तस्य साक्षात्कारमेव मोक्षः इति निर्णयः। मोक्षविषये विभिन्नदर्शनैः भिन्नाः मार्गाः प्रतिपादिताः - कर्म, उपासना, भक्ति, ज्ञानम् इत्यादयः। तथापि मतभेदेषु स्थितेषु अपि सर्वेषां दर्शनानां अन्तर्निहितं मतैक्यम् अस्ति, यत् तत्त्वसाक्षात्कारादेव दुःखनिवृत्तिः नित्यसुखलाभश्च सम्भवति।

Fields of Study & Subjects

Indian and Buddhist Studies Study and Philosophy of Religion Indian History and Philosophy

Publication details

Journal / source
International Journal of Sanskrit Research
Volume
12
Issue
1
Pages
316–319
Publication date
1 January 2026
Language
SA