कमरसमभव नर: शकत सधनयशच परतकम

Read full text
Authors: विशाल शर्मा
Cited by: 0

Abstract

महाकविकालिदासविरचितं कुमारसम्भवम् महाकाव्यं भारतीयसंस्कृतसाहित्ये नारीचेतनायाः उत्कृष्टं स्वरूपं प्रस्तौति। अस्मिन् महाकाव्ये शिव–पार्वत्योः प्रेम, तपः, विवाहः तथा कुमारकार्तिकेयस्य जन्मकथा वर्णिता अस्ति। अस्य काव्यस्य प्रथमाः अष्टौ सर्गाः निःसन्देहं कालिदासकृताः इति विद्वद्भिः स्वीक्रियन्ते। अत्र नारीचित्रणं मुख्यतया पार्वत्याः रूपेण दृश्यते, या सौन्दर्यस्य, दृढसंकल्पस्य, तपश्चर्यायाः तथा शक्तेः अद्वितीया प्रतीका अस्ति। रत्याः करुणविलापः नारीणां प्रेमगाम्भीर्यं पतिव्रताधर्मं च सुस्पष्टतया प्रकाशयति। अस्मिन् महाकाव्ये नारी केवलं सौन्दर्यस्य, प्रेम्णः अथवा कोमलतायाः प्रतिमा न भवति, अपि तु सा शक्तेः, साधनायाः तथा सृष्टेः मूलसत्ता इव प्रतिष्ठापिता अस्ति। पार्वत्याः चरित्रेण कालिदासः नारीं तपस्विनीं, सङ्कल्पशीलां, आध्यात्मिकशक्त्या सम्पन्नां च निरूपयति। शिवशक्तितत्त्वस्य दार्शनिकप्रतिपादनेन कविः स्पष्टं करोति यत् सृष्टेः निर्माणे नारीणां भूमिका अनिवार्या अस्ति। प्रस्तुतस्य शोधपत्रस्य उद्देश्यं कुमारसम्भवे नारीणां शक्तिस्वरूपस्य साधनातत्त्वस्य च शास्त्रीयविश्लेषणं कर्तुं तथा एतत् प्रतिपादयितुं यत् कालिदासस्य नारीदृष्टिः आधुनिकनारीसशक्तिकरणस्य अवधारणया सह साम्यं वहति इति।

Fields of Study & Subjects

Indian and Buddhist Studies Folklore Mythology and Literature Studies Cultural and Mythological Studies

Publication details

Journal / source
International Journal of Sanskrit Research
Volume
12
Issue
1
Pages
325–327
Publication date
1 January 2026
Language
SA