मलवकगनमतर रसलचनम
Abstract
श्रसो वै सःश् इत्यौपनिषदसिद्धान्तमूलकं रसतत्त्वं भारतीयकाव्यशास्त्रे परमात्मतत्त्ववत् प्रतिष्ठितम्। श्न हि रसादृते कश्चिदर्थः प्रवर्ततेश् इति नाट्यशास्त्रकाराणां प्रतिपादनम्ए आनन्दवर्धन.अभिनवगुप्त.धनञ्जय.विश्वनाथादिभिः आचार्यैः पुनः पुनः समर्थितम्। काव्यस्य आत्मा रस एवए इति सिद्धान्तं ध्वन्यालोक.साहित्यदर्पणादिषु स्पष्टतया निरूपितम्। प्रबन्धेषु अङ्गी.अङ्गभावेन रसानां विनिवेशे यः प्रमुखःए स एव काव्यस्य छायातिशयहेतुः इति अलङ्कारशास्त्रपरम्परायाः अभिमतिः।अस्मिन् शोधलेखे महाकवि कालिदासविरचिते मालविकाग्निमित्र नाटके अङ्गिरस.व्यवस्था परीक्षणपूर्वकं निरूपिता। धनञ्जयाचार्येण प्रतिपादितानुसारं नाटके वीरशृङ्गारयोः अन्यतरः अङ्गी भवेत्य अत्र तु शृङ्गार एव प्रधानरसः इति विवेचनात् सिद्ध्यति। विशेषतः विप्रलम्भशृङ्गारस्य पूर्वराग.अभिलाष.चिन्ता.स्मृति.उत्कण्ठा.सम्प्रलापादिरूपाः दशाः द्वितीय.तृतीयाङ्कयोः सुस्पष्टतया दृश्यन्ते। नायकनायिकयोः आलम्बनविभावए उद्दीपनए अनुभावए व्यभिचारिभावानां समुचितसंयोगात् रतिस्थायिभावस्य परिपोषः जातः।तथैव नाटके हास्यरसः विदूषकवाक्चेष्टादिभिःए रौद्ररसः अग्निमित्र.इरावत्योः क्रोधप्रसङ्गैःए करुणविप्रलम्भः विरहवेदनया च यथास्थानं प्रकाशते। तथापि एते सर्वे अङ्गरसा एवय शृङ्गारस्य परिपोषकत्वेन व्यवस्थिताः। चतुर्थाङ्के सम्भोगशृङ्गारेण विप्रलम्भस्य विश्रान्तिः दृश्यते। अतः निष्कर्षतः मालविकाग्निमित्रे शृङ्गार एव अङ्गिरसःए अन्ये तु तदुपकारकत्वेन अङ्गभावेन विनिविष्टाः इति निश्चीयते।
Fields of Study & Subjects
Indian and Buddhist Studies
Poetry Analysis and Criticism
Classical Studies and Philology
Publication details
- Journal / source
- International Journal of Sanskrit Research
- Volume
- 12
- Issue
- 1
- Pages
- 332–337
- Publication date
- 1 January 2026
- Language
- SA