वसषठगणपतमन कतय
Abstract
अखिलमानवजीवनं त्रितापदग्धं भवति, तेषां तापानां निवारणाय मानवः मुक्तिमार्गमन्विष्यति। भारतीयज्ञानपरम्परायां वेददृउपनिषद्दृपुराणदृदर्शनदृकाव्यादिशास्त्राणि एतस्मै प्रयोजनाय प्रादुर्भूतानि। एषु काव्यस्य विशेषं स्थानं विद्यते, यतः काव्यमार्गेण अल्पबुद्धिरपि पुरुषार्थचतुष्टयं सहजतया प्राप्नोति। आधुनिकजीवने शास्त्राध्ययनस्य क्लिष्टतां दृष्ट्वा, वैदिकसिद्धान्तानां सरलरूपेण प्रस्तुतीकरणे महाकवीनां भूमिका अत्यन्तमहत्त्वपूर्णा वर्तते।अस्मिन् सन्दर्भे काव्यकण्ठवासिष्ठगणपतिमुनिः (1878दृ1936) इति महाकविः, तपस्वी, दार्शनिकश्च अद्वितीयप्रतिभासम्पन्नः आसीत। आन्ध्रप्रदेशे जातः अयं मुनिः व्याकरणदृतर्कदृअलङ्कारदृवेददृआयुर्वेददृज्योतिषादिषु शास्त्रेषु निपुणः आसीत्। नवद्वीपविद्वत्परिषदि पण्डितान् पराजित्य “काव्यकण्ठ” इति उपाधिं लब्धवान्। भगवतः श्रीरमणमहर्षेः सन्निधौ तस्य आध्यात्मिकप्रतिभा अधिकं प्रस्फुटिता।मुनिना रचितेषु ग्रन्थेषु स्तोत्रकाव्यानि (उमासहस्रम्, इन्द्राणीसप्तशती, प्रचण्डचण्डत्रिशती, उमाशतकम्, उमात्रिशती), दार्शनिकग्रन्थाः (विश्वमीमांसा, राजयोगसारसूत्रम्, शब्दप्रमाणचर्चा), उपनिषद्भाष्यम्, सामाजिकग्रन्थाः (पञ्चज्ञानचर्चा, विवाहधर्मसूत्रम्), आयुर्वेददृज्योतिषग्रन्थाश्च प्रमुखतया उल्लेखनीयाः सन्ति। तस्य कृतिषु वैदिकदृतान्त्रिकदृऔपनिषदिकतत्त्वानां समन्वयः दृश्यते। राष्ट्रभक्त्या समाजसुधारभावनया च प्रेरिताः तस्य ग्रन्थाः केवलम् आध्यात्मिकसाधनाय न, अपितु राष्ट्रनिर्माणाय अपि उपकारकाः आसन।एवं वासिष्ठगणपतिमुनेः व्यक्तित्वं कृतित्वं च भारतीयसाहित्ये दार्शनिकपरम्परायां च विशिष्टं स्थानं भजते। तस्य काव्येषु अध्यात्म, राष्ट्रभक्ति, समाजसुधारणा, वेदान्ततत्त्वचिन्तनं च समन्वितरूपेण प्रतिपादितं दृश्यते। प्रस्तुतशोधपत्रे तस्य जीवनम्, साहित्यिकदृदार्शनिकयोगदानं च समालोचितम् अस्ति।
Fields of Study & Subjects
Indian and Buddhist Studies
Cultural and Mythological Studies
South Asian Studies and Diaspora
Publication details
- Journal / source
- International Journal of Sanskrit Research
- Volume
- 12
- Issue
- 1
- Pages
- 348–351
- Publication date
- 1 January 2026
- Language
- SA