शसतरयससकतकवय धवनकसवरप करय च एक समलचनतमक वशलषणतमक अधययनम

Read full text
Authors: Sukeshwar Singh
Cited by: 0

Abstract

अयं शोधलेखः शास्त्रीयसंस्कृतकाव्ये ध्वनिसिद्धान्तस्य स्वरूपं, प्रकारान्, तथा काव्यानुभूतौ तस्य निर्णायकभूमिकां विश्लेषणात्मकदृष्ट्या विवेचयति। संस्कृतकाव्यशास्त्रपरम्परायां ध्वनिसिद्धान्तः आनन्दवर्धनप्रणीतः काव्यस्य आत्मतत्त्वत्वेन प्रतिष्ठितः, यत्र काव्यबोधः अभिधादृलक्षणाभ्यां अतिक्रम्य व्यञ्जनाशक्त्या सहृदयस्य हृदये रसात्मकानुभूतिं जनयति। अस्मिन् अध्ययनें ध्वन्यालोकस्य तथा अभिनवगुप्तप्रणीतस्य लोचनग्रन्थस्य आधारभूतेन विश्लेषणेन ध्वनिस्वरूपं स्पष्टीकृतम्। ध्वनिभेदाःकृवस्तुध्वनिः, अलृ्कारध्वनिः, रसध्वनिःकृइति त्रिविधतया विवेच्यन्ते, येषु रसध्वनिः सर्वोच्चस्थानं धारयति। अध्ययनं दर्शयति यत् रसस्य प्रत्यक्षवर्णनं काव्ये सौन्दर्यहानिकरं भवति, परं तस्य व्यञ्जनया एव शुद्धरसानुभवः सम्भवति। कालिदासदृभवभूतिदृमाघादिकवीनां काव्येषु ध्वन्यर्थस्य स्वाभाविकप्रयोगः सहृदयस्य चिरस्थायीरसानुभूतिं जनयति इति निष्कर्षः प्राप्तः। अयं शोधः ध्वनिसिद्धान्तस्य केवलं शास्त्रीयमहत्त्वं न, अपि तु आधुनिकसाहित्यालोचनायामपि तस्य सार्वकालिकप्रासृ्गिकतां प्रकाशयति।

Fields of Study & Subjects

Indian and Buddhist Studies Poetry Analysis and Criticism Classical Studies and Philology

Publication details

Journal / source
International Journal of Sanskrit Research
Volume
12
Issue
1
Pages
395–397
Publication date
1 January 2026
Language
SA