कलदससय अभजञनशकनतल रससदधनतसय समलचनतमक अधययनम

Read full text
Authors: Sukeshwar Singh
Cited by: 0

Abstract

अयं शोधलेखः कालिदासकृतस्य अभिज्ञानशाकुन्तलनाटकस्य रससिद्धान्तात्मकं विश्लेषणं प्रस्तौति। भारतीयनाट्यशास्त्रपरम्परायां रससिद्धान्तः साहित्यसौन्दर्यस्य प्राणतत्त्वं मन्यते, यस्य व्यवस्थितप्रतिपादनं भरतमुनिना नाट्यशास्त्रे कृतम्। अस्मिन् अध्ययनकार्ये वर्णनात्मक-विश्लेषणात्मक-पद्धतेः आधारेण अभिज्ञानशाकुन्तलस्य कथावस्तु, पात्रविन्यासः, संवादप्रयोगः तथा प्रकृतिवर्णनं रससिद्धान्तस्य आलोकात् परीक्षितम्। अध्ययनात् एतत् स्पष्टं जातं यत् नाटके शृङ्गाररसः प्रधानत्वेन प्रतिष्ठितः अस्ति, यः संयोग-विप्रलम्भयोः द्वयोः भेदयोः माध्यमेन क्रमशः विकसितः भवति। तदतिरिक्तं करुण, अद्भुत, भयानकरसादयः अपि यथास्थानं विनियुक्ताः सन्ति, ये कथानकस्य भावगौरवं वर्धयन्ति। पात्रविशेषेषु शकुन्तलायाः लज्जा, सहनशीलता तथा विरहदुःखं शृङ्गारस्य स्थायीभावं पोषयन्ति, यदा दुष्यन्तस्य पश्चात्तापः करुणरसस्य गाम्भीर्यं प्रकाशयति। प्रकृतिवर्णनानि रसोत्पत्तौ उद्दीपनविभावरूपेण कार्यं कुर्वन्ति। समग्रतः अयं शोधलेखः प्रतिपादयति यत् अभिज्ञानशाकुन्तलम् रससिद्धान्तस्य आदर्शप्रयोगरूपेण भारतीयनाट्यसाहित্যে विशिष्टं स्थानं धारयति।

Fields of Study & Subjects

Indian and Buddhist Studies Theatre and Performance Studies Classical Studies and Philology

Publication details

Journal / source
International Journal of Sanskrit Research
Volume
12
Issue
1
Pages
398–400
Publication date
1 January 2026
Language
SA