धरमशसतर यगधरमसवरपववचनम

Read full text
Authors: Janardhanan R, S Venugopalan
Cited by: 0

Abstract

भारतीयधर्मपरम्परायां “युगधर्म” इति सिद्धान्तः धर्मस्य कालसापेक्षस्वरूपपरिवर्तनं प्रतिपादयति। धर्मः शाश्वततत्त्वरूपेण सृष्टेः आधारः, समाजसंरक्षणस्य साधनम्, पुरुषार्थचतुष्टयसाधनस्य मार्गश्च भवति; तथापि तस्य व्यवहाररूपं युगभेदेन परिवर्तते। अस्मिन् शोधलेखे कृत, त्रेता, द्वापर तथा कलियुगेषु धर्मस्य स्थितिः, क्षयक्रमः, साधनभेदः, सामाजिकपरिवर्तनं च धर्मशास्त्रीयदृष्ट्या समीक्षितम्। मनुस्मृति, पराशरस्मृति, बृहस्पतिस्मृति, महाभारत, विष्णुपुराण, शिवपुराणादिषु ग्रन्थेषु युगानुसारं धर्मनिर्णयः, कालपरिमाणविचारः, दानविधानभेदः, साधनसुलभीकरणं च विस्तरेण निरूपितम्।विशेषतः धर्मस्य “चतुष्पाद–त्रिपाद–द्विपाद–एकपाद” क्षयक्रमः, कलियुगे धर्मस्य सरलभक्तिरूपपरिणामः, नामस्मरणस्य परमधर्मत्वं, तथा पराशरस्मृतेः कलियुगप्रामाण्यं प्रमुखतया प्रतिपादितम्। अध्ययनस्य निष्कर्षः अयं यत् धर्मस्य नित्यत्वं तस्य उद्देश्ये अस्ति, किन्तु व्यवहाररूपे स कालानुकूलः, मानवसामर्थ्यानुकूलः च भवति। अतः युगधर्मसिद्धान्तः धर्मशास्त्रस्य व्यावहारिकता, सामाजिकोपयोगिता, आध्यात्मिकसामञ्जस्यं च प्रकाशयति।

Fields of Study & Subjects

Indian and Buddhist Studies Study and Philosophy of Religion Cultural and Mythological Studies

Publication details

Journal / source
International Journal of Sanskrit Research
Volume
12
Issue
1
Pages
406–408
Publication date
1 January 2026
Language
SA