कठपनषद: समजकमहततवम
Abstract
भारतीयदर्शनपरम्परायां उपनिषदः परमप्रामाणिकं तथा मौलिकं ज्ञानस्रोतः स्वीकृताः सन्ति। ते वेदान्तशब्देन पराविद्याशब्देन वा अभिधीयन्ते तथा ब्रह्मविद्याया आत्मविद्यायाश्च रहस्यं प्रकाशयन्ति। प्रस्तुतशोधलेखः विशेषतः कठोपनिषदः सामाजिकमहत्त्वं विवेचयति। अस्मिन् ग्रन्थे यम-नचिकेतयोः संवादरूपेण आत्मतत्त्वस्य, श्रेय-प्रेयमार्गस्य,एकाग्रतायाः, गुरुशिष्यसम्बन्धस्य, पितृभक्तेः तथा अतिथिसत्कारस्य गूढार्थाः निरूपिताः सन्ति।कठोपनिषद् न केवलं आध्यात्मिकदृष्ट्या अपितु सामाजिकदृष्ट्यापि महत्त्वपूर्णा वर्तते। अस्याम् उपनिषदि गुरुशिष्यसम्बन्धस्य आदर्शरूपं, मातृपितृसेवायाः अनिवार्यता, अतिथिसत्कारस्य धर्मत्वं, तथाएकाग्रतायाः महत्त्वं सुस्पष्टतया प्रतिपादितम्। नचिकेतसः दृढनिश्चयः, भोगवस्तुषु अनासक्तिः, श्रेयमार्गस्य वरणं च आधुनिकसमाजाय प्रेरणास्रोतः भवति।अतः निष्कर्षरूपेण वक्तुं शक्यते यत् कठोपनिषद् आध्यात्मिकसाधनायाः सह सामाजिकमूल्यानां संवर्धनाय अपि प्रभावी मार्गदर्शिका अस्ति। आधुनिकसन्दर्भे अस्य उपदेशाः व्यक्तित्वविकासे, नैतिकमूल्यसंरक्षणे तथा सुसंस्कृतसमाजनिर्माणे अत्यन्तोपयोगिनः सन्ति।
Fields of Study & Subjects
Indian and Buddhist Studies
Cultural and Mythological Studies
South Asian Studies and Diaspora
Publication details
- Journal / source
- International Journal of Sanskrit Research
- Volume
- 12
- Issue
- 1
- Pages
- 429–432
- Publication date
- 1 January 2026
- Language
- SA