करमलकषणपरषकर:

Read full text
Authors: सीतांशुरंजनदाशः .
Cited by: 0

Abstract

अयं शोधलेखः पाणिनीयव्याकरणे “कर्तुरीप्सिततमं कर्म” इति सूत्रस्य तात्त्विकं व्याकरणशास्त्रीयं च विशदविमर्शं प्रस्तौति। “कारके” इत्यधिकारसूत्राधीनत्वेन कर्मसंज्ञाया स्वरूपं, तस्य लक्षणं, तथा तमब्ग्रहणस्य प्रयोजनत्रयं (व्यापारे प्राधान्यनिवेशः, फले व्यापारप्रयोज्यत्वम्, फलस्य प्रकृतधात्वर्थतावच्छेदकत्वम्) इत्यादि विषयाः सूक्ष्मतया निरूपिताः। वैयाकरणमतानुसारं प्रकृतधात्वर्थप्रधानीभूतव्यापारप्रयोज्यफलाश्रयत्वमेव कर्मत्वमिति सिद्धान्तः स्थापितः। लेखे “चैत्रस्तण्डुलं पचति”, “यवेभ्यो गां वारयति”, “चैत्रो ग्रामं गच्छति” इत्याद्युदाहरणैः कर्मसंज्ञाया व्यवहारिकप्रयोगेषु समन्वयः प्रदर्शितः। विशेषतः तमब्ग्रहणाभावे उत्पद्यमानदोषाः तथा तन्निवारणाय तस्य अनिवार्यता विस्तरेण विवृता। अपि च नैयायिकमतस्य परिशीलनं कृत्वा तत्र परसमवेतत्वादिलक्षणस्वीकारेऽपि उत्पद्यमानदोषाः प्रकाश्यन्ते, अन्ते च वैयाकरणमतस्य युक्तियुक्तता स्थापिताऽस्ति। अतः निष्कर्षतः प्रतिपाद्यते यत् कर्मसंज्ञाव्यवस्थायां “कर्तुरीप्सिततमं कर्म” इति सूत्रे तमब्ग्रहणं न केवलं औपचारिकं, अपितु तात्त्विकदृष्ट्या अत्यावश्यकं भवति। वैयाकरणपारिभाषितकर्मलक्षणमेव दोषरहितं, प्रयोगानुगुणं, शास्त्रसम्मतं च इति सिद्ध्यति।

Fields of Study & Subjects

Indian and Buddhist Studies Syntax Semantics Linguistic Variation Classical Studies and Philology

Publication details

Journal / source
International Journal of Sanskrit Research
Volume
12
Issue
1
Pages
439–442
Publication date
1 January 2026
Language
SA