एकविंशशताब्द्यां वैश्विकपटले संस्कृतस्थापनार्थं संस्कृतशिक्षकाणां कौशलानाम् औचित्यपूर्णम् अन्वेषणम्
Abstract
एकविंशशताब्द्याः आरम्भे अस्मिन् युगे यत्र सूचनाप्रौद्योगिकी तथा च वैश्वीकरणस्य प्रक्रिया चरमोत्कर्षे वर्तते, तत्र संस्कृतभाषायाः स्थानं महत्त्वं च नूतनदृष्ट्या विमृश्यते । संस्कृतम् अतीव प्राचीना भाषा वर्तते इति तथ्ये संशयः नास्ति, किन्तु अस्याः भाषायाः स्वरूपं केवलं 'प्राचीनता' इति सीमायां न बद्धम् अस्ति । इयं भाषा भारतस्य सांस्कृतिकपरम्परायाः आधारस्तम्भः अस्ति, यत्र दर्शन-विज्ञान-साहित्य-कलानां सङ्गमः दृश्यते । वर्तमानकाले यदा जगत् मानसिकतनावः, पारिस्थिक-असन्तुलनमं, तथा च मूल्यहीनतायाः समस्याभिः जूझ्यमानं वर्तते, तदा संस्कृतवाङ्मये विद्यमानं ज्ञानं 'वसुधैव कुटुम्बकम्' इति उदात्तभावनया विश्वस्य मार्गदर्शकं भवितुं शक्नोति । संस्कृतस्य उपयोगिता अद्यतनकाले बहुविधा वर्तते । इयं भाषा न केवलं वेद-पुराण-स्मृतीनां वाहिका, अपितु आयुर्वेद-योग-गणित-खगोलविज्ञानादीनां वैज्ञानिकविषयाणाम् अपि आधारः अस्ति । आधुनिकविद्वद्भिः सङ्गणकविज्ञाने अपि अस्याः भाषायाः व्याकरणगता शुद्धता तार्किकसंरचना च दृष्ट्वा इयं सङ्गणकाय सर्वेभ्यः श्रेष्ठा भाषा इति घोषितम् । एतादृशे वैश्विकवातावरणे संस्कृतस्य पुनरुत्थानं केवलं भारतस्य आन्तरिकविषयः न भूत्वा वैश्विकं लक्ष्यं जातम् अस्ति । जर्मनी, अमेरिका अन्ये च यूरोपीयदेशाः संस्कृतस्य गूढज्ञानं प्राप्तुं स्वविश्वविद्यालयेषु संस्कृतविभागानां विस्तारं कुर्वन्तः सन्ति । यदा विश्वं संस्कृतं प्रति एवम्आकर्षितं वर्तते, तदा तस्य प्रचार-प्रसारस्य दायित्वं मुख्यरूपेण संस्कृतशिक्षकानां हस्ते अस्ति । एकविंशशताब्द्याः संस्कृतशिक्षकः सः न भवेत् यः केवलं पारम्परिकरीत्या पाठयति, अपितु सः, यः आधुनिकप्रौद्योगिकी-कुशलः, वैश्विकदृष्टिसम्पन्नः, तथा च नवीनशिक्षणपद्धतिभिः सुसज्जितः भवेत् ।
Fields of Study & Subjects
Linguistic Education and Pedagogy
Multilingual Education and Policy
Second Language Learning and Teaching
Publication details
- Journal / source
- International Journal of Sanskrit Research
- Volume
- 12
- Issue
- 2
- Pages
- 18–22
- Publication date
- 1 March 2026
- Language
- SA