दवपरण सखययदखतततववशलषणम

Read full text
Authors: Snigdha Poddar
Cited by: 0

Abstract

मानवजीवनं मूलतः दुःखमयम् इति प्राचीनभारतीयदर्शनपरम्परायां स्वीकृतम्। जन्म, जरा, रोग, मृत्यु, शोक, वासना इत्यादयः सर्वे दुःखरूपा अनुभवाः शास्त्रप्रवृत्तेः प्रमुखं कारणं भवन्ति। सांख्यदर्शने दुःखस्य त्रिविधस्वरूपम्—आध्यात्मिकम्, आधिभौतिकम्, आधिदैविकम्—इति निरूप्य तेषां निवृत्त्युपायः पञ्चविंशतितत्त्वज्ञानरूपेण प्रतिपादितः। प्रस्तुतलेखे देवीपुराणे निरूपितस्य दुःखतत्त्वस्य सांख्यदर्शनसमन्वितया समीक्षात्मकं अध्ययनं क्रियते। अत्र दर्शितं यत् देवीपुराणे त्रिविधदुःखस्य स्वरूपं, कारणानि, तन्निवृत्तेः उपायाश्च सम्यग् व्याख्याताः। आध्यात्मिकदुःखं शारीर-मानसजन्यम्, आधिभौतिकदुःखं प्राणि-प्रकृतिनिमित्तम्, आधिदैविकदुःखं ग्रह-दैव-प्राकृतिकप्रकोपनिमित्तं च इति प्रतिपादितम्। देव्याः आराधना, स्तोत्रपाठः, यागादिकर्म च दुःखनिवृत्तेः साधनत्वेन वर्णितम्। लेखे सांख्यदर्शनस्य तत्त्वमीमांसा तथा देवीपुराणस्य भक्तिमार्गीयदृष्टिकोणः तुलनात्मकरीत्या विश्लेषितः। अन्ते प्रतिपाद्यते यत् यथा सांख्ये तत्त्वज्ञानं मोक्षमार्गः, तथैव देवीपुराणे देव्याराधना दुःखत्रयनिवृत्तेः साधनरूपेण स्वीकृता। अनेन प्रकारेण सांख्यदर्शनस्य तत्त्वमीमांसात्मकदृष्टिः तथा देवीपुराणस्य भक्तिपरकमार्गः उभौ अपि दुःखमुक्तेः साधनरूपेण समन्वितौ दृश्येते।

Fields of Study & Subjects

Indian and Buddhist Studies Traditional Chinese Medicine Studies Cultural and Mythological Studies

Publication details

Journal / source
International Journal of Sanskrit Research
Volume
12
Issue
2
Pages
23–25
Publication date
1 March 2026
Language
SA