शिक्षापत्र्याः सामाजिकायामः- नैतिकसमाजस्थापनायाम् एकं संहितात्मकावलोकनम्

Read full text
Authors: मयूरी बरकाकति
Cited by: 0

Abstract

इदं शोधपत्रं भगवता स्वामिनारायणेन विरचितस्य “शिक्षापत्री” इति ग्रन्थस्य अन्तर्गतानां सामाजिकमूल्यानां दार्शनिकदृष्टीनाञ्च विश्लेषणं करोति । यद्यपि अयं ग्रन्थः मूलतः धार्मिकनियमपालनाय विरचितोऽस्ति, तथापि तत्र सामाजिकन्यायः नीतिशास्त्रविचारः स्त्रीणां सम्मानः परोपकारभावस्तथा धार्मिकसहास्तित्वञ्च इत्येतानि सार्वभौमिकमानवीयमूल्यानि स्पष्टतया प्रदर्शितानि सन्ति । शिक्षापत्रीग्रन्थस्य अध्ययनं न केवलं धार्मिकग्रन्थरूपेण, अपितु एकः सामाजिकदर्शिग्रन्थरूपेण पठनस्य प्रयासः क्रियते, यः भारतीयधार्मिकग्रन्थपरम्परायां सामाजिकोत्तरदायित्वस्य मूल्यचेतनायाश्च अद्वितीयमुदाहरणं प्रस्तुतं करोति । ग्रन्थे उल्लेखितशिक्षाः सामाजिकसमरसतायाः, शान्तेः, मानवीयगौरवस्य च आदर्शानां समर्थनं कुर्वन्ति । अयं शोधः मूल्यगतसमीक्षायाः माध्यमेन शिक्षापत्र्याः समसामयिकप्रासङ्गिकतां सम्भाव्यञ्च सामाजिकपरिवर्तनात्मकं स्वरूपमपि परीक्षणं करोति ।

Fields of Study & Subjects

Indian and Buddhist Studies South Asian Studies and Diaspora Indian History and Philosophy

Publication details

Journal / source
International Journal of Sanskrit Research
Volume
12
Issue
2
Pages
30–34
Publication date
1 March 2026
Language
SA