रघुवंशे मानवधर्मास्यानुचिन्तनम्

Read full text
Authors: पूनम पैंकरा, राघवेन्द्र शर्मा
Cited by: 0

Abstract

मानवधर्मः भारतीयसंस्कृतेः मूलाधारः अस्ति। धर्मः मनुष्यस्य लौकिक-पारलौकिकप्रगतौ सहायकः भवति तथा च समाजे शान्ति-सौहार्द्रस्य स्थापनां करोति। महाकविकालिदासविरचिते रघुवंशमहाकाव्ये मानवधर्मस्य आदर्शस्वरूपं रघुवंशीयनृपाणां चरित्रेण प्रतिपादितम् अस्ति। अस्मिन् अध्ययनलेखे मानवधर्मस्य प्रमुखतत्त्वानिकृयज्ञः, दानम्, तपः, दया, क्षमा, अहिंसा, कर्तव्यपरायणता तथा पाखण्डोन्मूलनम्कृइत्येतानि विवेचितानि सन्ति। कालिदासः रघुवंशीयनृपाणां जीवनचरित्रेण दर्शयति यत् एते नृपाः केवलं वीराः न आसन्, अपितु धर्मपरायणाः, दयालवः, दानशीलाः तथा कर्तव्यनिष्ठाः आसन्। यज्ञः परहिताय कृतकर्मरूपेण, दानम् निःस्वार्थसेवारूपेण, तपः आत्मसंयमस्य साधनरूपेण, दया-क्षमा-अहिंसा समाजे शान्तिस्थापनाय, तथा कर्तव्यपरायणता आदर्शराजधर्मस्य प्रतीकत्वेन प्रतिपादितानि सन्ति। अपि च पाखण्डोन्मूलनस्य माध्यमेन कालिदासः धर्मस्य वास्तविकस्वरूपं दर्शयति, यत् केवलं बाह्याचारः न, अपितु सदाचारपरकं जीवनमूल्यं वर्तते। अतः रघुवंशमहाकाव्यम् मानवधर्मस्य आदर्शप्रदर्शकं ग्रन्थरूपेण प्रतिष्ठितं दृश्यते, यः मनुष्यजीवनस्य नैतिक-आध्यात्मिकमार्गदर्शनं करोति।

Fields of Study & Subjects

Indian and Buddhist Studies Cultural and Mythological Studies South Asian Studies and Diaspora

Publication details

Journal / source
International Journal of Sanskrit Research
Volume
12
Issue
2
Pages
42–47
Publication date
1 March 2026
Language
SA