अष्टाध्यायां वृद्धिपदार्थविमर्शः

Read full text Summarise with VIRAT
Authors: परमेश्वरनन्दः .
Cited by: 0

Summary

No summary yet. VIRAT can read this paper and write a plain-language summary of its aim, methods, key findings and limitations.

Summarise with VIRAT Free to try with your Science Catalogs account.

Abstract

अस्मिन् शोधप्रबन्धे संस्कृतव्याकरणशास्त्रस्य मूलस्वरूपं, तस्य वैदिकपरम्परायां स्थानं तथा च “वृद्धि” इति संज्ञायाः विशदं विमर्शात्मकं अध्ययनं कृतम् अस्ति। वेदाः सर्वविद्यानां मूलम् इति सिद्धान्तस्य आधारत्वेन व्याकरणस्य अनिवार्यता प्रतिपादिता, यतः व्याकरणं वेदार्थबोधस्य मुख्योपकरणं भवति। पाणिनीयव्याकरणपरम्परायां “वृद्धिरादैच्” इत्यादिसूत्राणां व्याख्यानद्वारा वृद्धिसंज्ञायाः स्वरूपं, तद्भावित-अतद्भावितभेदः, तस्य प्रयोगक्षेत्राणि च निरूपितानि। महाभाष्य, काशिका, सिद्धान्तकौमुदीप्रभृतिग्रन्थानां सन्दर्भेण व्याकरणशास्त्रस्य दार्शनिकं, भाषावैज्ञानिकं च महत्त्वं प्रकाश्यते। एवं निष्कर्षतः प्रतिपाद्यते यत् व्याकरणं न केवलं शब्दशुद्धेः साधनं, अपितु भारतीयज्ञानपरम्परायाः संरक्षणे, प्रसारे च अत्यन्तं आवश्यकं साधनम् अस्ति।

Fields of Study & Subjects

Indian and Buddhist Studies Linguistics and language evolution Classical Studies and Philology

Publication details

Journal / source
International Journal of Sanskrit Research
Volume
12
Issue
2
Pages
192–196
Publication date
1 March 2026
Language
SA