अषटभय औशतसतरसमकषणम
Abstract
प्रकृतोऽयं लेख: ‘अष्टाभ्य औश्’ इति सूत्रम् विषयीकृत्य प्रवर्तते । अष्टन: परयो: जश्शसो: औश् स्यात् इति सूत्रस्य अर्थ: । यथा उदाहरणम् - अष्टौ इति । इह अष्टन्शब्दात् जसि शसि वा विहिते तस्य स्थाने ‘औश्’ इत्यादेशे शित्वात्सर्वादेशे अष्टौ इति सिद्ध्यति । लेखेऽस्मिन्सोदाहरणमनुवृत्त्यादिकं प्रतिपाद्य सूत्रं सुस्पष्टं परिचाय्य तत: परं सूत्रस्य विशेषा विचारा विचार्यन्ते । तत्र च प्रामाणिकत्वेन प्रौढा ग्रन्था: प्रौढमनोरमा, शब्दरत्नम्, लघुशब्देन्दुशेखर:, महाभाष्यम् इत्यादय आश्रीयन्ते । तत्र च ग्रन्थेषु विद्यमाना विविधा व्याख्या आकलय्य तत्र विद्यमानै: आक्षेपसमाधानादिभि: एतच्छास्त्रीया विविधा विचारा समुपस्थाप्यन्ते । तेषु च विचारेषु प्रथमं सूत्रं परिचाय्य ‘औशघौ’ इति न्यासेनैव सिद्धौ ‘अष्टाभ्य औश्’ इति न्यासकरणस्य प्रयोजनं विचार्यते । तदनु च एतस्य शास्त्रस्य अपवादभूतं शास्त्रं किम् ? इति विमृश्यते । तदङ्गत्वेन जसि शसि च आत्वविधायकस्य शास्त्रस्याभावेऽपि आत्वप्रवृत्तये प्रयासं प्रमाणञ्च प्रतिपाद्यते । तत्पश्चाच्च स्वरविधायके ‘अष्टनो दीर्घात्’ इति सूत्रे दीर्घग्रहणस्य प्रयोजनं विचार्य तेन च ज्ञाप्यांशोऽपि प्रकाश्यते । तदङ्गत्वेन च तत्तत्प्रत्ययेषु अष्टन्शब्दस्य स्वरसञ्चारक्रमोऽपि निरूप्यते । अथ परमाष्टन्शब्दे आत्वमिष्यते न वा इति यथाभाष्यं सुस्पष्टं निरूपयिष्यते । अथाष्टाभ्य उङ् इति न्यासेनापि सिद्धौ औश्विधानस्य असाधारणं प्रयोजनम् विचार्य तत्र तत्र विचारेषु ससन्दर्भं ग्रन्थान् प्रमाणीकृत्य चरमे निष्कर्षेण च लेखोऽयं सम्पूर्णतां प्राप्स्यति । एवं विधव्याख्यानेन च सूत्रमिदं सर्वांशत: स्पष्टतां नीयते ।
Fields of Study & Subjects
Indian and Buddhist Studies
Classical Studies and Philology
Linguistics and language evolution
Publication details
- Journal / source
- Kaumodaki Journal of Multidisciplinary Studies
- Volume
- 6
- Issue
- 01
- Pages
- 18–28
- Publication date
- 28 January 2026