शबदबध नमततकरणन
Abstract
शब्दस्यायं शब्दे भव आगतो जातो वा शाब्दः स चासौ बोधः शाब्दबोधः, अर्थात् शब्दप्रमाणजन्यत्वेन विषयीभूतो यो बोधः स शाब्दबोधपदेन व्यवहार्यः । तस्मिँश्च बोधे निमित्तकारणानि आकङक्षा- योग्यता- आसत्ति - तात्पर्याणि चतुर्विधानि सन्ति । तेषु वाक्यस्य यः समयः सङ्केतः, तद्ग्राहिका तद्विषयकबोधजनिका आकाङ्क्षा भवतीत्यर्थः बोद्धव्यः । परस्परान्वयप्रयोजकधर्मवत्वं योग्यतात्वम्, यथा जलेन सिञ्चतीति वाक्यमिदं योग्यम्, परन्तु "वह्निना सिञ्चति" इति वाक्यमयोग्यं वह्नेः सेकान्वयप्रयोजकद्रवद्रव्यत्वाभावात् । पदस्य सन्निधानमासत्तिरुच्यते, प्रकृतान्वयबोधाऽननुकूलपदाव्यवधानमासत्तिरित्यर्थः, यथा "गिरिरग्निमान्" अस्मिन् वाक्ये आसत्तिर्विद्यते "गिरिर्भुक्त्तमग्निवान् देवदत्तेन" इत्यत्र च अनासन्नत्वान्न शाब्दबोधः, मन्दबुद्धिमतामविलम्बेन शाब्दबोधे कारणत्वमासत्तौ विद्यत इति ध्येयम् । ईश्वरेच्छा तात्पर्यमिति वाक्यस्य ईश्वरेच्छा ईश्वरस्य परम्परया तत्तदर्थबोधने वाक्यप्रयोक्तृणां तात्पर्यसत्वादुपलक्षणम् । अत एव "वक्तुरिच्छा तु तात्पर्यम्" इति सिद्धान्तमुक्तावल्याः सिद्धान्तो निःसृतः । एतद्वाक्यं पदं वा एतदर्थबोधाय उच्चारणीयमितीश्वरीयेच्छारूपा "तात्पर्यार्थोऽपि केषुचिद्" इति च मतस्य सत्वात् कैश्चिद् तात्पर्यरूपस्य शाब्दबोधनिमित्तकारणे अनपेक्षितत्वेऽपि "सति तात्पर्ये सर्वे सर्वार्थवाचकाः" इति शाब्दिकानां नये भाष्यसिद्धान्तस्य सिद्धत्वादेव घटशब्दात् पटविषयकबोधो न भवति । तस्मात् शाब्दबोधे आकाङ्क्षादीनां निमित्तकारणत्वाद् नानार्थस्थले "सैन्धवमानय" इत्यत्र यात्राप्रसङ्गे घोटकरूपार्थं बोधयति न तु लवणरूपार्थमित्यस्मिन् लघ्वनुसन्धाने शाब्दबोधे निमित्तकारणानां पदज्ञानेन पदार्थोपस्थित्या सह शाब्दबोधरूपफलविषयीभूतानामाकाङ्क्षादीनां प्रमुखाणां प्रसङ्गसङ्गत्या तदन्तर्गतविषयाणां च गभीरतया विचारो विद्यत इति भावः ।
Fields of Study & Subjects
Indian and Buddhist Studies
Syntax
Semantics
Linguistic Variation
Linguistics and language evolution
Publication details
- Journal / source
- Kaumodaki Journal of Multidisciplinary Studies
- Volume
- 6
- Issue
- 01
- Pages
- 60–73
- Publication date
- 28 January 2026