वरहकतवरषवजञनवमरश:

Read full text
Authors: रविशर्मावास्तोला Ravi Sharma Bastola
Cited by: 0

Abstract

प्रस्तुतोऽयं लेख आचार्यवराहोक्तस्य वर्षाविज्ञानस्य वर्णने केन्द्रितोऽस्ति । ग्रह-नक्षत्र-ताराणां गतीनां योगानां तथा च पर्यावरणस्य अनुसन्धानेन कृतं वर्षाया अनुमानं वर्षाविज्ञानम् । यद्यपि आधुनिकै: वातावरणविद्भि: वायो: मेघस्य च परिस्थितिं परीक्ष्य वर्षाया: पूर्वानुमानं विधीयते तथापि प्राचीनकाले ज्योतिर्विद्भि: कया रीत्या वर्षाया अनुमानं विधीयते स्म इति विषये अद्यतना वातावरणविद नावगच्छन्ति । अयं लेख: प्राचीनकाले वर्षायां पूर्वानुमानं कया पद्धत्या क्रियते स्म इति विषयं प्रकाशयति । वर्षाविज्ञानविषये ज्यौतिषशास्त्रविद्वभि: बहुभिराचार्यै: वृहती चर्चा न कृता, तस्मात् प्रमुखरूपेण वराहस्य बृहत् संहिताया आश्रयं गृहीत्वा विहितमिदं वर्षाविज्ञानविषयकं गुणात्मकमनुसन्धानम् । अस्यानुसन्धानेन ज्योतिर्विद्भि: अनुसन्धितवर्षाविज्ञानस्य महत्त्वं प्रतिपाद्य आधुनिकसमयेऽपि तस्य विज्ञानस्य ज्ञानेन प्रयोगेण च वर्षाया: पूर्वानुमानं कर्तुं शक्यते इति प्रकाश्यते । वर्षाज्ञानाय ज्योतिर्विद्वभि: प्रयुक्तो अनुमानविधि आधुनिकैरपि अनुसर्तव्य इत्यस्य लेखस्य अभिप्रायो विद्यते ।

Fields of Study & Subjects

Historical Astronomy and Related Studies Indian and Buddhist Studies Historical Religious and Philosophical Studies

Publication details

Journal / source
Kaumodaki Journal of Multidisciplinary Studies
Volume
6
Issue
01
Pages
74–87
Publication date
28 January 2026