वशषकदरशसयतहसपरशलनम

Read full text
Authors: श्याममणिनेपालः Shyammani Nepal
Cited by: 0

Abstract

प्राच्यदर्शनेषु महत्त्वपूर्णं विशिष्टञ्चेदं वैशेषिकदर्शनम् । महर्षिणा कणादेन प्रोक्तत्वात् कणाददर्शनमिति नामान्तरेणापि प्रसिद्धम् । महर्षेः कणादस्यैवापरं नाम उलूकः, इत्यतः तन्नाम्ना औलुक्यदर्शमिति च प्रथितम् । परमाणुकारतावादप्रतिपादनात् परमाणुवादिदर्शनमित्यपि प्रसिद्धम् । यद्यपि दर्शनस्यास्य प्रणेता महर्षिः कणादः, अतः कणादादेव प्रारब्धमिदं दर्शनमिति वक्तुं शक्यम्, तथापि वेदस्मृतिपुराणादिशास्त्रेषु च एतद्दर्शनवर्णिता विषयाः प्राप्यन्ते, क्वचित् कणादस्यैव नाम्ना, क्वचिच्च एतत्समानतन्त्रस्य न्यायदर्शनस्य प्रसङ्गेन च एतद्दर्शनस्य चर्चा च समुपलभ्यते इत्यतो दर्शनमिदमनादि इत्यपि वक्तुं शक्यम् । सूत्रकारात् कणादादारभ्य प्रशस्तपादाचार्य-श्रीधराचार्य-उदयनाचार्य-बल्लभाचार्य-शङ्करमिश्रप्रभृतिभिर्बहुभिर्दार्शनिकैः वैशेषिकदर्शनस्य विस्तारः कृत इति एतद्दर्शनेतिहासाध्ययनेन ज्ञायते । ख्रिष्टाब्दस्य दशमशताब्दिपूर्वकालः महर्षेः कणादस्य काल इतीतिहासविद्भिरुच्यते । ईशाया दशशतवर्षपूर्वकालात् सूत्रकालाद् वा ख्रिष्टाब्दस्य सप्तदशशताब्दीकालं तर्कसंग्रहकालं यावत् मूलरूपेण, ततश्च व्याख्योपव्याख्याविश्लेषणानुसन्धानानुवादादिरूपेण इदानीन्तनकालं यावद् बहव आचार्याः समागताः, यैः तत्तत्काले विशेषग्रन्थप्रणयनेन वैशेषिकदर्शनस्य साहित्यभाण्डारः सुसमृद्धः कृत इति वक्तुं शक्यते । वैशेषिकदर्शनस्य प्रभावेणैव अधुना प्रायः सर्वेष्वपि दर्शनेषु प्रमेयचिन्तने वैशेषिकदर्शनस्य प्रभावोऽनुभूयते, तत्तद्दर्शनग्रन्थेषु दृश्यते च । अतोऽस्मिन् लेखे वैदिकसाहित्येषु, स्मृतिपुराणादौ च वैशेषिकदर्शनविषयाः कथं प्राप्यन्ते, कणादकालादारभ्य अधुना यावत् मुख्यरूपेण के के आचार्या दार्शनिकाश्च बभुवुः, तैः कीदृशानि ग्रन्थरत्नानि प्रणीतानि, तेषां प्रभावश्च आधुनिकदर्शनजगति कीदृशश्चास्तीति विषयाः परिशीलिताः सन्ति ।

Fields of Study & Subjects

Indian and Buddhist Studies Philosophy and Historical Thought Study and Philosophy of Religion

Publication details

Journal / source
Kaumodaki Journal of Multidisciplinary Studies
Volume
6
Issue
01
Pages
106–119
Publication date
28 January 2026