सहल-तलपतर-गरनथन सङखयङकनगत 'अकषर-पलल' पदधत 'सवसत-सदधम' वरणमलय एव वसतर कम? - एक परलपगत वशलषणम।
Abstract
सिंहल-तालपत्र-ग्रन्थपरम्परायां पृष्ठाङ्कनाय प्रयुक्ता 'अक्षर-पल्ली' पद्धतिः न केवलं गणितीय-सङ्ख्याङ्कन-प्रणाली, अपितु एषा मध्यकालीन-दक्षिण-एशिया-क्षेत्रे प्रख्यातायाः 'स्वस्ति-सिद्धम्' वर्णमालायाः प्रगाढं सम्बन्धं धरति। अस्य शोधस्य मुख्योद्देश्यं 'अक्षर-पल्ली' पद्धतिः सिद्धम्-वर्णमालायाः एव संरचनात्मक-विस्तारः अस्ति वा इति पुरालिपि-विज्ञानाधारेण परीक्षणं वर्तते। तालपत्रस्य प्रारम्भे दृश्यमानः 'स्वस्ति सिद्धम्' इति मङ्गलपाठः, तदनन्तरं प्रचलन्ती अक्षर-सङ्ख्या-प्रणाली च इत्यनयोः सामञ्जस्यम् अत्र विश्लेषणं क्रियते। विशेषतः सिद्धम्-वर्णमालायाः षोडश-स्वराणां साहाय्येन व्यञ्जनैः सह स्वर-संयोगं कृत्वा (यथा- क, का, कि, की...) ५४४ पर्यन्तं पृष्ठाङ्कनस्य प्रक्रिया, तत्र च 'स्वस्ति' इति चिह्नस्य शून्य-रूपेण प्रयोगः अस्मिन् शोधपत्रे साक्षात्क्रियते। सिंहल-लेखनकलायाम् अक्षर-पल्ली-पद्धतेः संस्थापने सिद्धम्-वर्णमालायाः प्रभावः निर्णायकः घटकः आसीत् इति अस्य अध्ययनस्य निष्कर्षः अस्ति।
Fields of Study & Subjects
Indian and Buddhist Studies
Libraries
Manuscripts
and Books
History and Theory of Mathematics
Publication details
- Journal / source
- International Journal of Advanced Academic Studies
- Volume
- 8
- Issue
- 2
- Pages
- 63–67
- Publication date
- 1 February 2026
- Language
- SA