हतवभससमनयलकषणवमरश
Abstract
मानाधीना मेयसिद्धिः इति सिद्धान्तस्य सर्वसम्मतत्वात् समेषामेव प्रमेयवस्तूनां याथार्थ्यं प्रमाणबलेनैव साधयितुं शक्यते, तच्च प्रमाणं प्रत्यक्षानुमानोपमानशब्दभेदेन न्यायशास्त्राभिमतं चतुर्विधम्। तत्रापि प्रमाणचतुष्टयमध्ये अनुमानप्रमाणस्य प्राधान्यं दृश्यते। तच्चानुमानम् अनुमितौ करणं, तच्च करणं व्याप्तिज्ञानस्वरूपं, तद्व्यापारत्वेन समुत्पन्नात् परामर्शात् अनुमितिः समुत्पद्यते। तया एव अनुमित्या प्रत्यक्षप्रमाणेन अनवगतानां पदार्थानां ज्ञानं भवितुमर्हति। तत्रानुमाने यथा व्याप्तिपक्षधर्मताविशिष्टहेतूनामुपयोगिता आवश्यकी तथैव व्याप्तिपक्षधर्मतारहितानामसद्धेतूनां परिज्ञानमपि परमावश्यकम्। यदि असद्धेतुसंज्ञकानां हेत्वाभासानां ज्ञानं न जायते तर्हि वाद्युद्भावितेषु पक्षेषु दोषोद्भावनं नहि कर्त्तुं शक्यते न वा स्वपक्षस्थापनार्थं सद्धेतूनां प्रयोगः कर्त्तुं शक्यते। यतो हि दुष्टहेतुभिन्नानां व्याप्तिपक्षधर्मताविशिष्टहेतूनामेव यथार्थतत्त्वसाधनक्षमत्वम्। इत्थं सर्वत्र तत्त्वनिर्णयार्थं विजयार्थं च हेत्वाभासपरिज्ञानं परमावश्यकम्। वस्तुतः निग्रहस्थानेषु अन्यतमोऽयं हेत्वाभासः निग्रहस्थानेभ्यः वहिरपि पृथक्पदार्थत्वेन अङ्गीकृतः। यद्यपि प्रतिवादिविजयाय निग्रहस्थानानि सर्वत्र समाश्रयन्ते किन्तु अन्यनिग्रहस्थानापेक्षया प्राचुर्येण आचार्य्यैः हेत्वाभास एव प्रयुज्यते। न्यायालयेऽपि वादिप्रतिवादिनोः मध्ये विजयाभिलाषिपुरुषः हेत्वाभासानां ज्ञानमधिगम्य तज्जन्यदोषैः स्वीयरक्षामथ च स्वविरोधिना प्रयुक्तेऽनुमाने हेत्वाभासानां समुद्भावनं कृत्वा अन्यं पराजेतुं शक्नोति। हेतोराभासाः हेत्वाभासाः तथा हेतुवदाभासन्ते प्रतीयन्ते इति हेत्वाभासाः इत्युभाभ्यामेव व्युत्पत्तिभ्यां हेत्वाभासपदार्थः ज्ञायते। तत्र प्रथमव्युत्पत्तिलभ्यं हेत्वाभासपदं हेतुदोषपरकम्। द्वितीयं च दुष्टहेतुपरकम्। तादृशदोषविशिष्टः हेतुरेव हेत्वाभासपदवाच्यः। प्रस्तुतशोधपत्रे तस्य हेत्वाभासपदस्य किं स्वरूपम्। तस्य साधारणं लक्षणं किमिति सपदकृत्यं विस्तरेण चिन्तामणि-दीधिति-गादाधरीशास्त्रोक्तदिग्भिः प्रतिपादितमस्ति। तत्र चिन्तामणिकारोक्तहेत्वाभासलक्षणेषु कथमव्याप्तिप्रभृतयः दोषाः जायन्ते परिष्कारपूर्वकं तत्परिहारः लक्षणान्तरस्वीकारे बीजप्रदर्शनञ्च टीकाकाराः कथं कुर्वन्तीत्यपि प्रतिपादितो वर्त्तते। इत्थं शोधपत्रेऽस्मिन् विभिन्नदार्शनिकानां मते हेत्वाभासवैविध्यं तथा तेषां संख्याभेदः एवं नव्यन्यायदिशा हेत्वाभाससामान्यलक्षणानां स्वरूपकथनं तेषां परिष्काराश्च सविस्तरेण प्रतिपादिताः वर्त्तन्ते।
Fields of Study & Subjects
Indian and Buddhist Studies
Epistemology
Ethics
and Metaphysics
Legal processes and jurisprudence
Publication details
- Journal / source
- Devabhumisaurabham
- Volume
- 2
- Issue
- 2
- Publication date
- 30 January 2026