मधरययरसलकन शरगतगवनदकवयम- एकमधययनम

Read full text
Authors: सुशोभनसिंहमहापात्रः
Cited by: 0

Abstract

अनेके वैष्णवसाहित्यिकाः स्वस्मिन् ग्रन्थे मधुरमपि रसत्वेनाङ्गीकृतवन्तः। यद्यपीयं धारा श्रीजयदेवकालादेव वा तत्पूर्वतः एव प्रचलितासीत्। तथापि गौडीयवैष्णवदार्शनिकाः विषयममुं सावधानेन विचिन्त्य श्रीकृष्णराधायाः परमोज्ज्वलमाधुर्य्यरसमण्डितग्रन्थान् लिलिखुः। तथैव अनेकेषु अलङ्कारग्रन्थेषु माधुर्य्यरसविषये समालोचनमपि विहितम्। तेषु भक्तिरसामृतसिन्धुः, उज्ज्वलनीलमणिः इत्यादयः ग्रन्थाः सुप्रसिद्धाः। तत्र रूपगोस्वामिना भक्तिरसं पञ्चधा विभाजितम्। तेषु पञ्चरसेषु माधुर्य्यः चरमः परमोत्तमः परमपुरुषार्थश्च वर्त्तते। यदुक्तं श्रीनाथचक्रवर्त्तिना चैतन्यमतमञ्जूषाग्रन्थे "प्रेम पुमार्थो महान्"१ प्रस्तुतशोधपत्रे तेषु ग्रन्थेषु माधुर्य्यरसविषयकपरिचिन्तनपुरःसरं तदालोकेन गीतगोविन्दकाव्यस्यानुशीलनं विहितम्।

Fields of Study & Subjects

Indian and Buddhist Studies Cultural and Mythological Studies Poetry Analysis and Criticism

Publication details

Journal / source
Devabhumisaurabham
Volume
2
Issue
2
Publication date
30 January 2026