शरदवगतयजञनममस

Read full text
Authors: तीजराम:वर्मा
Cited by: 0

Abstract

श्रीमद्देवीभागवतमहापुराणं पुराणवाङ्मयेऽत्यन्तं महिमामये स्थाने विद्यते।शक्त्युपासका इदं पुराणम् शाक्तभागवतमपि कथयन्ति। ग्रन्थेऽस्मिन् सर्वत्र भगवत्या आद्याशक्तेर्महिम्नःप्रतिपादनं क्रियते । अत्र मुख्यत्वेन परब्रह्मण:परमात्मनो मातृरूपस्य तस्य उपासनायाश्च वर्णनं प्राप्यते। संसारे सर्वेषां प्राणिनां कृते मातृभावस्य महान् महिमा वर्तते। स्वाभाविकरूपेण मानवस्याधिकं श्रद्धा मातृचरणेषु भवति यतो हि लोकस्य सर्वप्रथमं दर्शनं स मातृक्रोडे करोति तस्मान्माता सर्वेषामादिगुरुत्वेन प्रतिष्ठिता । मातुःकृपा लौकिकस्य पारलौकिकस्य च कल्याणस्य आधारस्तस्मादुक्तम् - “मातृदेवो भव” । या भगवती महाशक्तिस्वरूपिणी तथा सम्पूर्णजगतो माता सैव सम्पूर्णलोकस्य गुरुस्वरूपा । मातुरस्य गुरुस्वरूपस्य दर्शनं ‘श्रीदेवीगीतायां’ भवति। श्रीदेवीभागवतमहापुराणस्य केचन अध्यायाः ‘श्रीदेवीगीता’ इति नाम्ना प्रसिद्धम्। अस्यां गीतायां भगवती पर्वतेन्द्राय वेदान्तज्ञानमुपदिशति। अहमेव भगवती वेदान्तशास्त्रेषु ब्रह्मरूपेण कथितं मम स्वाभाविकी शक्तिः माया। माया एव प्रकृति:,अविद्या, प्रधानमित्यादि नाम्ना व्यवह्रियते। मायाविशिष्टो ब्रह्म अव्यक्तं कथ्यते तस्मादेवाऽऽव्यक्तादाकाशादिक्रमेण सम्पूर्णसृष्टिर्जायते। जगतःकारणं अज्ञानम् । अविद्यया कामना, कामनया कर्म, कर्मणा जन्ममरणचक्रं भवति । अज्ञानस्य ज्ञानेन निवृत्तिर्भवति। निष्कामकर्मणा चितस्य मलपसार्य ‘तत्त्वमसि’ इत्यादीनां महावाक्यानामर्थबोधं कुर्यात्। उपाधीनां ज्ञानेन निवृत्तौ ‘अहं चैतन्यमिति’ बोधो भवति ।

Fields of Study & Subjects

Indian and Buddhist Studies Cultural and Mythological Studies Study and Philosophy of Religion

Publication details

Journal / source
Devabhumisaurabham
Volume
2
Issue
2
Pages
136–146
Publication date
30 January 2026
Language
HI