नययनय करणतवपदरथवमरश
Abstract
शास्त्रमर्मज्ञा न केवलं स्वशास्त्राभिमतसिद्धान्ताभिमानिनोऽपितु तदनुकूलप्रमाणानुसन्धानजलधिनिमग्नास्तैस्तैः प्रमाणैस्स्वशास्त्रनिबद्धपदार्थे प्रामाण्यसाधनतत्परा भवन्ति । विशेषत आस्तिकदार्शनिकपरम्परायां पूर्वोक्तः क्रमो दरीदृश्यते । तस्मादेव कारणाद्दार्शनिकाः प्रबलप्रमाणसाहाय्येन परमतनिराकरणपूर्वकं स्वमतं स्थापयन्ति । तत्रापि न्यायदर्शनाभिमतप्रमाणैरर्थपरीक्षणप्रक्रियाविशेषेणानुशील्यते । सदसद्विवेकोऽपि तथैव कार्योपादानकारणत्वस्य । प्रबन्धेऽस्मिन् ‘नानुपलब्धे न निर्णीतार्थे न्यायः प्रवर्तते किं तर्हि संशयितार्थ’ इति न्यायभाष्यानुशासनाद्, अयं शोधः कार्यं प्रागेव कारणे सद् असद् वा? इत्यस्मिन्, विशेषतः कार्यं कार्योपादानकारणे सन्न वा? इत्याकारकसंशये प्रवर्तते । एवं च ‘विमृश्य पक्षप्रतिपक्षाभ्याम् अर्थावधारणं निर्णय’ इति न्यायसूत्रोपदेशानुशिष्टात् सदसत्पदार्थयोः पक्षं विपक्षं चावलम्ब्य तत्तच्छास्त्राभिमतानुकूलसाधकबाधकोभयहेतुं प्रमाणैर्विमृश्य प्रमाणसहकृततर्केण कार्यं कारणे प्रागेव न सदिति प्रतिपाद्यते । तद्विरुद्धत्वेन प्रतिभासमानस्य कार्यं प्रागेवोपादानकारणे सदितीत्याकारकसत्त्वाभासस्याभासो निराक्रियते । नैयायिकाः प्रमाणानुरोधेनासत्कार्यवादिनः, केचन सत्कार्यवादिनः अनेनैको विशिष्टस्संशय उदेति यत्, कार्यमुत्पत्तेः प्रागेव कारणे सद् असद् वा? तत्संशयसमाधानार्थेयं प्रवृत्तिः । न्यायसूत्रे महर्षिगौतम ईश्वरोपादानताप्रकरणे ईश्वरस्य कारणत्वम् उपदिशति । तदनुरोधेनैव न्यायभाष्यकारस्तस्माद् ईश्वरः कारणमिति प्रोवाच । तथैव न्यायकुसुमाञ्जलिग्रन्थ आचार्य उदयनोऽलौकिकस्य परलोकस्यालौकिकसाधनमस्ति न वा ? इत्याकारकसंशयस्य निवृत्त्यै प्राथम्येन घटादिकार्ये कपालादिकारणजन्यत्वं साधयति कार्यस्य समवायिकारणे पूर्वविद्यमानत्वात् कादाचित्कत्वहेतुना । कादाचित्कत्वञ्च प्रागभावभिन्नत्वे सति यत्किञ्चित्कालबाधितत्वे सति यत्किञ्चित्कालाबाधितत्वम् । परन्तु ये सांख्या अद्वैतवेदान्तिनश्च ते कार्यस्य कारणवैचित्र्याभावत्वात् कार्यं कारणे प्रागेव सदित्यङ्गीकुर्वन्ति, यद्यपि शांकरभाष्याद्यद्वैतग्रन्थेषु ब्रह्मण उपादानत्वं केनचिद्रूपेण स्वीकृतमेव । तथापि कारणात् कार्यमभिन्नं नेति साधनमत्यावश्यकमसत्कार्यवादराद्धान्तस्य तन्मूलत्वात् । तदनुरोधेनैवास्मिञ्च्छोधप्रबन्धेऽसत्कार्यवादिनां मतं तच्छास्त्रानुसारेणैवोपस्थाप्य तस्यास्वीकार्यत्वे बीजं संस्थाप्य न्यायनये कारणत्वपदार्थं सर्वतोभावेन विविच्य न्यायदर्शनाभिमत–असत्कार्यवादपदार्थस्य सिद्धिः प्रमाणीक्रियते ।
Fields of Study & Subjects
Indian and Buddhist Studies
Study and Philosophy of Religion
Epistemology
Ethics
and Metaphysics
Publication details
- Journal / source
- Devabhumisaurabham
- Volume
- 2
- Issue
- 2
- Pages
- 160–168
- Publication date
- 30 January 2026
- Language
- SA