वयञजनवततवचर

Read full text
Authors: डॅा.ऋतेशा .
Cited by: 0

Abstract

भारतीयकाव्यशास्त्रे शब्दार्थयोः समन्वयः साहित्यस्य मूलाधारः इति स्वीकृतः। “शब्दार्थौ सहितौ काव्यम्” इति प्रसिद्धसूक्त्या काव्यस्य स्वरूपं निरूपितम्। काव्ये शब्दस्य तिस्रः शक्तयः अभिधा, लक्षणा, व्यञ्जना चेति आचार्यैः स्वीकृताः। अभिधया मुख्यार्थस्य बोधः भवति, लक्षणया बाधितमुख्यार्थात् गौणार्थस्य प्रतीतिः जायते, व्यञ्जनया तु सूक्ष्मः, रसात्मकः, अलौकिकः च अर्थः प्राप्यते , स एव व्यङ्ग्यार्थ इति कथ्यते। व्यङ्ग्यार्थः काव्यस्य आत्मा इति आनन्दवर्धनादिभिः प्रतिपादितम्। यतो हि काव्ये रसभावसौन्दर्यचमत्कारादीनां अनुभूतिः व्यञ्जनावृत्त्या एव सम्भवति। केवलं वाच्यार्थज्ञानं काव्यस्य पूर्णास्वादाय न पर्याप्तम्। सहृदयपाठकः एव व्यङ्ग्यार्थस्य गाम्भीर्यं ग्रहीतुं समर्थः भवति। अस्मिन् शोधपत्रे मम्मट-आनन्दवर्धन-विश्वनाथप्रभृतीनामाचार्याणां मतानुसारेण व्यञ्जनासिद्धान्तस्य स्वरूपं विवेचितम्। एतेषां मतं यत् व्यङ्ग्यार्थबोधः न अभिधया, न लक्षणया, न च अनुमानप्रमाणेन सम्भवति, अपितु केवलं व्यञ्जनाशक्त्या एव भवति।

Fields of Study & Subjects

Indian and Buddhist Studies Poetry Analysis and Criticism Classical Studies and Philology

Publication details

Journal / source
Devabhumisaurabham
Volume
2
Issue
2
Pages
169–176
Publication date
30 January 2026