कवयशसतरयनयकलकषणदषटय शरमदरमयणकतसतचरतरसय वमरश
Abstract
उद्भवस्थितिसंहारकारिणीं क्लेशहारिणीम्। सर्वश्रेयस्करीं सीतां नतोऽहं रामवल्लभाम्॥ (रा. मा. - बा. काण्ड. ५) संस्कृतसाहित्यस्य आदिकाव्यरूपेण जगति प्रख्यातमानमादिकविना वाल्मीकिना विरचितं श्रीमद्रामायणम्। सप्तकाण्डैः पुरुषोत्तमरामचन्द्रस्य चरित्रमुपन्यास्तमत्रैव विविधचरित्रैः सह। साहित्यशास्त्रैः सदैव भणितं ‘रामादिवत् प्रवर्तितव्यमिति’। एतेषां चरित्राणां संज्ञानेन अवबोधेन च काव्यशास्त्राणां लक्ष्यं प्रति अनुगच्छतीति। अत्रैव आलोच्य विषयस्तु श्रीमत्याः जनकतनयायाः सीतायाः चरित्रं काव्यशास्त्रीयनायिकालक्षणदृष्ट्या। विषयवस्तुविश्लेषणविधिमधिकृत्य अत्रैव अध्ययनं भवति। पुरुषोत्तमरामचन्द्रेण सह सदैव वर्णनं प्राप्यते मातुः सीतायाः श्रीमद्रामायणे। तथापि विषेशरूपेण बालकाण्डस्य ७३ सर्गे विवाहप्रसङ्गे, अयोध्याकाण्डस्य २६-३० सर्गेषु वनगमनप्रसङ्गे, अरण्यकाण्डस्य २७, ४८, ५३, ४6 सर्गेषु , किष्किन्ध्याकाण्डे २८, ३० सर्गयोः, सुन्दरकाण्डे २२, ११७, ११८ सर्गेषु, युद्धकाण्डे ३२-३४, ८३, ११७-११९ सर्गेषु, उत्तरकाण्डे ५२-६०, १०९-११० सर्गेषु च रामवल्लभायाः वर्णनं प्राप्तमिति। आलोच्य विषयं दृष्ट्वा करुणरसोऽभिव्यञ्जितं वर्णनं सीतायाः चरित्रन्तु शास्त्रोक्तेषु पञ्चसतीषु अन्यतमम्। काव्यशास्त्रस्य लक्षणं दृष्ट्या स्वीयासु मुग्धाश्रेण्याः नायिका माता सीता। मुग्धानायिकायाः लक्षणप्रसङ्गे साहित्यदर्पणे कविराजेन प्रोक्तम् – प्रथमावतीर्णयौवनमदनविकारा रतौ वामा। कथिता मृदुश्च माने समधिक-लज्जावती मुग्धा॥ (सा. द. ३.७२) वर्तमानेषु एव मातुः सीतायाः सादृशगुणैव अपेक्षते तदैव स्मृतिषु उक्तवाणीषु एव सार्थकता ‘यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः’ इति।
Fields of Study & Subjects
Indian and Buddhist Studies
Narrative Theory and Analysis
Literary Theory and Cultural Hermeneutics
Publication details
- Journal / source
- Devabhumisaurabham
- Volume
- 2
- Issue
- 2
- Pages
- 190–195
- Publication date
- 30 January 2026
- Language
- SA