अदवतवदनत ववरतवदसय नरपणम

Read full text
Authors: Shrabani Bera
Cited by: 0

Abstract

भगवता शंकराचार्येण सृष्टिप्रक्रियाविषये विवर्तवादः स्वीक्रियते। शंकराचार्यमतानुसारं नामरूपात्मकं जगत् अपि विवर्तवादस्य आभासमात्रम्। विवर्तो नाम स्वस्वापरित्यागेन वस्त्वन्तरमिथ्याप्रतीतिः विवर्तः। शंकरमतानुसारं ब्रह्मैव सत्, जगदिदं ब्रह्मणः विवर्तम्। वेदान्तपरिभाषायां वर्णितम् - “परिणामो नाम उपादानसमसत्ताककार्यापत्तिः। विवर्तो नाम उपादानविषमसत्ताककार्यापत्तिः” । उपादानस्य समवस्तुनो यत् कार्यमुत्पद्यते स परिणामो इति नाम्ना परिचितः। अपि च उपादानस्य विषमसत्तात् यत् कार्यम् उत्पन्नं भवति तत् विवर्तमिति नाम्ना परिचितम्। विवर्तवादिनः अनुसारं कारणं कदापि न परिवर्तितं भवति। कारणं कार्यरूपे प्रतिभाति। कारणस्य विवर्तं तु कार्यम्। मम शोधप्रबन्धे भगवता शंकराचार्यमतानुसारं किं नाम विवर्तम् तद्विषये आलोच्यते।

Fields of Study & Subjects

Indian and Buddhist Studies Study and Philosophy of Religion Traditional Chinese Medicine Studies

Publication details

Journal / source
Devabhumisaurabham
Volume
2
Issue
2
Pages
204–212
Publication date
30 January 2026
Language
HI