भसकरयगलधयय ऋतवरणनम

Read full text
Authors: गिरीशभट्टः बि, दिवाकर शर्मा
Cited by: 0

Abstract

भास्कराचार्येण सिद्धान्तशिरोमणिः इति गणित-खगोलशास्‍त्रयोः सम्बद्धः ग्रन्थः लिखितः । ग्रन्थेऽस्मिन् लीलावती, बीजगणितम्, ग्रहगणितम्, गोलाध्यायश्चेति चत्वारो भागाः वर्तन्ते । तत्र गोलाध्यायस्यान्ते ऋतुवर्णनसंज्ञकः कश्चन अध्यायो भास्कराचार्येण उपनिबद्धः । तस्मिन् अध्याये साहित्यरीत्या ऋतूनां वर्णनं भास्कराचार्येण कृतम् । यष्टियन्‍त्रेण वेधेन साधितायाः अर्कदोर्ज्यायाः वशात् अर्कस्फुटस्य साधनाय वर्षचरणस्य ज्ञानमावश्यकम् । वर्षचरणस्य ज्ञानार्थम् ऋतुलक्षणानि द्रष्टव्यानि भवन्ति । वर्तमानकाले प्रकृतौ दृश्यमानानां लक्षणानामाधारेण इदानीं कः ऋतुः प्रचलन्नस्तीति ज्ञात्वा तद्‍द्वारा अधुना वयं वर्षस्य कस्मिन् चरणे स्मः इति ज्ञातुं शक्नुमः । इत्थं वर्षचरणज्ञानाय ऋतुज्ञानमावश्यकम् । ऋतुज्ञानाय ऋतुलक्षणानां ज्ञानम् आवश्यकम् । एवं प्रकृतौ कस्मिन् ऋतौ कीदृशानि लक्षणानि दृश्यन्ते इति ज्ञानाय एव भास्कराचार्येण गोलाध्यायस्यान्ते ऋतुलक्षणाध्यायो उपनिबद्धः ।

Fields of Study & Subjects

Historical Astronomy and Related Studies Indian and Buddhist Studies History and Theory of Mathematics

Publication details

Journal / source
Devabhumisaurabham
Volume
2
Issue
2
Pages
225–234
Publication date
30 January 2026
Language
SA